किष्किन्धा काण्डKishkindha kandaरामायणRamayanaरामRamaसर्ग ६३Sarga 63
१. एतैः अन्यैः च बहुभिः वाक्यैः वाक्य विशारदः ।
माम् प्रशस्य अभ्यनुज्ञाप्य प्रविष्टः स स्वम् आलयम्
२. कंदरात् तु विसर्पित्वा पर्वतस्य शनैः शनैः ।
अहम् विंध्यम् समारुह्य भवतः प्रतिपालये
३. अद्य तु एतस्य कालस्य साग्रम् वर्ष शतम् गतम् ।
देश काल प्रतीक्षो अस्मि हृदि कृत्वा मुनेः वचः
४. महाप्रस्थानम् आसाद्य स्वर् गते तु निशाकरे ।
माम् निर्दहति संतापो वितर्कैः बहुभिः वृतम्
५. उदिताम् मरणे बुद्धिम् मुनि वाक्यैः निवर्तये ।
बुद्धिः या तेन मे दत्ता प्राणानाम् रक्षणे मम
६. सा मे अपनयते दुःखम् दीप्ता इव अग्नि शिखा तमः ।
बुध्यता च मया वीर्यम् रावणस्य दुरात्मनः
७. पुत्रः संतर्जितो वाग्भिः न त्राता मैथिली कथम् ।
तस्या विलपितम् श्रुत्वा तौ च सीता वियोजितौ
८. न मे दशरथ स्नेहात् पुत्रेण उत्पादितम् प्रियम् ।
तस्य तु एवम् ब्रुवाणस्य संहतैः वानरैः सह
९. उत्पेततुः तदा पक्षौ समक्षम् वन चारिणाम् ।
स दृष्ट्वा स्वाम् तनुम् पक्षैः उद्गतैः अरुण च्छदैः
१०. प्रहर्षम् अतुलम् लेभे वानरान् च इदम् अब्रवीत् ।
निशाकरस्य राजर्षेः प्रभावात् अमित ओजसः
११. आदित्य रश्मि निर्दग्धौ पक्षौ पुनः उपस्थितौ ।
यौवने वर्तमानस्य मम आसीत् यः पराक्रमः
१२. तम् एव अद्य अवगच्छामि बलम् पौरुषम् एव च ।
सर्वथा क्रियताम् यत्नः सीताम् अधिगमिष्यथ
१३. पक्ष लाभो मम अयम् वः सिद्धि प्रत्यय कारकः ।
इति उक्त्वा तान् हरीन् सर्वान् संपातिः पतगोत्तम
१४. उत्पपात गिरेः शृंगात् जिज्ञासुः ख गमो गतिम् ।
तस्य तत् वचनम् श्रुत्वा प्रतिसंहृष्ट मानसाः ।
बभूवुः हरि शार्दूला विक्रम अभ्युदय उन्मुखाः
१५. अथ पवन समान विक्रमाःप्लवग वराः प्रतिलब्ध पौरुषाः ।
अभिजित् अभिमुखाम् दिशम् ययुःजनक सुता परिमार्गण उन्मुखाः