Sanatan Gyan
सनातन ज्ञानSanatan Gyan

किष्किन्धा काण्ड, सर्ग ४५Kishkindha kanda, sarga 45

किष्किन्धा काण्डKishkindha kandaरामायणRamayanaरामRamaसर्ग ४५Sarga 45
१. सर्वाः च आहूय सुग्रीवः प्लवगान् प्लवगर्षभः ।
समस्तान् च अब्रवीत् राजा राम कार्यार्थ सिद्धये
२. एवम् एतत् विचेतव्यम् भवद्भिः वानरोत्तमैः ।
तत् उग्र शासनम् भर्तुर् विज्ञाय हरि पुंगवाः
३. शलभा इव संछाद्य मेदिनीम् संप्रतस्थिरे ।
रामः प्रस्रवणे तस्मिन् न्यवसत् सह लक्ष्मणः
४. प्रतीक्षमाणः तम् मासम् यः सीता अधिगमे कृतः ।
उत्तराम् तु दिशम् रम्याम् गिरि राज समावृताम्
५. प्रतस्थे सहसा वीरो हरिः शतबलिः तदा ।
पूर्वाम् दिशम् प्रति ययौ विनतो हरि यूथपः
६. तारा अंगदादि सहितः प्लवगः पवनात्मजः ।
अगस्त्य चरिताम् आशाम् दक्षिणाम् हरि यूथपः
७. पश्चिमाम् तु दिशम् घोराम् सुषेणः प्लवगेश्वरः ।
प्रतस्थे हरि शार्दूलो दिशम् वरुण पालिताम्
८. ततः सर्वा दिशो राजा चोदयित्वा यथा तथम् ।
कपि सेना पतीन् वीरो मुमोद सुखितः सुखम्
९. एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।
स्वाम् स्वाम् दिशम् अभिप्रेत्य त्वरिताः संप्रतस्थिरे
१०. नदन्तः च उन्नदन्तः च गर्जन्तः च प्लवंगमाः ।
क्ष्वेलन्तो धावमानाः च विनदन्तो महाबलाः
११. एवम् संचोदिताः सर्वे राज्ञा वानर यूथपाः ।
आनयिष्यामहे सीताम् हनिष्यामः च रावणम्
१२. अहम् एको वधिष्यामि प्राप्तम् रावणम् आहवे ।
ततः च उन्मथ्य सहसा हरिष्ये जनक आत्मजाम्
१३. वेपमानम् श्रमेण अद्य भवद्भिः स्थीयताम् इति ।
एक एव आहरिष्यामि पातालात् अपि जानकीम्
१४. विधमिष्यामि अहम् वृक्षान् दारयिष्यामि अहम् गिरीन् ।
धरणीम् दारयिष्यामि क्षोभयिष्यामि सागरान्
१५. अहम् योजन संख्यायाः प्लविता न अत्र संशयः ।
शतम् योजन संख्यायाः शतम् समधिकम् हि अहम्
१६. भू तले सागरे वा अपि शैलेषु च वनेषु च ।
पातालस्य अपि वा मध्ये न मम आच्छिद्यते गतिः
१७. इति एकैकः तदा तत्र वानरा बल दर्पिताः ।
ऊचुः च वचनम् तस्य हरि राजस्य सन्निधौ