Sanatan Gyan
सनातन ज्ञानSanatan Gyan

किष्किन्धा काण्ड, सर्ग ३२Kishkindha kanda, sarga 32

किष्किन्धा काण्डKishkindha kandaरामायणRamayanaरामRamaसर्ग ३२Sarga 32
१. अंगदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ।
लक्ष्मणम् कुपितम् श्रुत्वा मुमोच आसनम् आत्मवान्
२. स च तान् अब्रवीत् वाक्यम् निश्चित्य गुरु लाघवम् ।
मंत्रज्ञान् मंत्र कुशलो मंत्रेषु परिनिष्ठितः
३. न मे दुर् व्याहृतम् किंचित् न अपि मे दुर् अनुष्ठितम् ।
लक्ष्मणो राघव भ्राता क्रुद्धः किम् इति चिंतये
४. असुहृद्भिः मम अमित्रैः नित्यम् अन्तर दर्शिभिः ।
मम दोषान् असंभूतान् श्रावितो राघवानुजः
५. अत्र तावत् यथा बुद्धि सर्वैः एव यथा विधि ।
भावस्य निश्चयः तावत् विज्ञेयो निपुणम् शनैः
६. न खलु अस्ति मम त्रासो लक्ष्मणान् न अपि राघवात् ।
मित्रम् तु अस्थान कुपितम् जनयति एव संभ्रमम्
७. सर्वथा सुकरम् मित्रम् दुष्करम् प्रतिपालनम् ।
अनित्यत्वात् तु चित्तानाम् प्रीतिः अल्पे अपि भिद्यते
८. अतो निमित्तम् त्रस्तो अहम् रामेण तु महात्मना ।
यन् मम उपकृतम् शक्यम् प्रतिकर्तुम् न तन् मया
९. सुग्रीवेण एवम् उक्ते तु हनुमान् हरि पुंगवः ।
उवाच स्वेन तर्केण मध्ये वानर मंत्रिणाम्
१०. सर्वथा न एतद् आश्चर्यम् यत् त्वम् हरिगणेश्वर ।
न विस्मरसि सुस्निग्धम् उपकारम् कृतम् शुभम्
११. राघवेण तु वीरेण भयम् उत्सृज्य दूरतः ।
त्वत् प्रिय अर्थम् हतो वाली शक्र तुल्य पराक्रमः
१२. सर्वथा प्रणयात् क्रुद्धो राघवो न अत्र संशयः ।
भ्रातरम् संप्रहितवान् लक्ष्मणम् लक्ष्मि वर्धनम्
१३. त्वम् प्रमत्तो न जानीषे कालम् कलविदाम् वर ।
फुल्ल सप्त च्छद श्यामा प्रवृत्ता तु शरत् शिवा
१४. निर्मल ग्रह नक्षत्रा द्यौः प्रनष्ट बलाहका ।
प्रसन्नाः च दिशः सर्वाः सरितः च सरांसि च
१५. प्राप्तम् उद्योग कालम् तु न अवैषि हरिपुंगव ।
त्वम् प्रमत्त इति व्यक्तम् लक्ष्मणो अयम् इह आगतः
१६. आर्तस्य हृत दारस्य परुषम् पुरुष अन्तरात् ।
वचनम् मर्षणीयम् ते राघवस्य महात्मनः
१७. कृत अपराधस्य हि ते न अन्यत् पश्यामि अहम् क्षमम् ।
अंतरेण अंजलिम् बद्ध्वा लक्ष्मणस्य प्रसादनात्
१८. नियुक्तैः मंत्रिभिः वाच्यो अवश्यम् पार्थिवो हितम् ।
इत एव भयम् त्यक्त्वा ब्रवीमि अवधृतम् वचः
१९. अभिक्रुद्धः समर्थो हि चापम् उद्यम्य राघवः ।
स देव असुर गंधर्वम् वशे स्थापयितुम् जगत्
२०. न स क्षमः कोपयितुम् यः प्रसाद्य पुनर् भवेत् ।
पूर्व उपकारम् स्मरता कृतज्ञेन विशेषतः
२१. तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्रः स सुहृत् जनः ।
राजन् तिष्ठ स्व समये भर्तुः भार्या इव तत् वशे
२२. न राम रामानुज शासनम् त्वयाकपीन्द्र युक्तम् मनसा अपि अपोहितुम् ।
मनो हि ते ज्ञास्यति मानुषम् बलम्स राघवस्य अस्य सुरेन्द्र वर्चसः