Sanatan Gyan
सनातन ज्ञानSanatan Gyan

किष्किन्धा काण्ड, सर्ग २१Kishkindha kanda, sarga 21

किष्किन्धा काण्डKishkindha kandaरामायणRamayanaरामRamaसर्ग २१Sarga 21
१. ततो निपतिताम् ताराम् च्युताम् ताराम् इव अंबरात् ।
शनैः आश्वासयामास हनूमान् हरि यूथपः
२. गुण दोष कृतम् जंतुः स्वकर्म फल हेतुकम् ।
अव्यग्रः तद् अवाप्नोति सर्वम् प्रेत्य शुभ अशुभम्
३. शोच्या शोचसि कम् शोच्यम् दीनम् दीना अनुकंपसे ।
कः च कस्य अनुशोच्यो अस्ति देहे अस्मिन् बुद्बुद उपमे
४. अंगदः तु कुमारो अयम् द्रष्टव्यो जीव पुत्रया ।
आयत्या च विधेयानि समर्थानि अस्य चिन्तय
५. जानासि अनियताम् एवम् भूतानाम् आगतिम् गतिम् ।
तस्मात् शुभम् हि कर्तव्यम् पण्डितेन इह लौकिकम्
६. यस्मिन् हरि सहस्राणि शतानि नियुतानि च ।
वर्तयन्ति कृत आशानि सो अयम् दिष्टांतम् आगतः
७. यद् अयम् न्याय दृष्ट अर्थः साम दान क्षमा परः ।
गतो धर्म जिताम् भूमिम् न एनम् शोचितुम् अर्हसि
८. सर्वे च हरि शार्दूलाः पुत्रः च अयम् तव अंगदः ।
हरि ऋक्ष पति राज्यम् च त्वत् सनाथम् अनिन्दिते
९. तौ इमौ शोक संतप्तौ शनैः प्रेरय भामिनि ।
त्वया परिगृहीतो अयम् अंगदः शास्तु मेदिनीम्
१०. संततिः च यथा दृष्टा कृत्यम् यत् च अपि सांप्रतम् ।
राज्ञः तत् क्रियताम् सर्वम् एष कालस्य निश्चयः
११. संस्कार्यो हरि राजः तु अंगदः च अभिषिच्यताम् ।
सिंहासन गतम् पुत्रम् पश्यन्ती शान्तिम् एष्यसि
१२. सा तस्य वचनम् श्रुत्वा भर्तृ व्यसन पीडिता ।
अब्रवीत् उत्तरम् तारा हनूमन्तम् अवस्थितम्
१३. अंगद प्रतिरूपाणाम् पुत्राणाम् एकतः शतम् ।
हतस्य अपि अस्य वीरस्य गात्र संश्लेषणम् वरम्
१४. न च अहम् हरि राज्यस्य प्रभवामि अंगदस्य वा ।
पितृव्यः तस्य सुग्रीवः सर्व कार्येषुइ अनंतरः
१५. न हि एषा बुद्धिः आस्थेया हनूमन् अंगदम् प्रति ।
पिता हि बंधुः पुत्रस्य न माता हरि सत्तम
१६. न हि मम हरि राज संश्रयात्क्षमतरम् अस्ति परत्र च इह वा ।
अभिमुख हत वीर सेवितम्शयनम् इदम् मम सेवितुम् क्षमम्