बाल काण्डBala kandaरामायणRamayanaरामRamaसर्ग ६९Sarga 69
१. ततो रात्र्याम् व्यतीतायाम् स उपाध्यायः स बान्धवः ।
राजा दशरथो हृष्टः सुमंत्रम् इदम् अब्रवीत्
२. अद्य सर्वे धन अध्यक्षा धनम् आदाय पुष्कलम् ।
व्रजंति अग्रे सु विहिता नाना रत्न समन्विताः
३. चतुरंग बलम् च अपि शीघ्रम् निर्यातु सर्वशः ।
मम आज्ञा समकालम् च यानम् युग्मम् अनुत्तमम्
४. वसिष्ठो वामदेवः च जाबालिः अथ काश्यपः ।
मार्कण्डेयः च दीर्घायुः ऋषिः कात्यायनः तथा
५. एते द्विजाः प्रयान्तु अग्रे स्यंदनम् योजयस्व मे ।
यथा काल अत्ययो न स्यात् दूता हि त्वरयन्ति माम्
६. वचनात् च नरेन्द्रस्य सेना च चतुरंगिणी ।
राजानम् ऋषिभिः सार्धम् व्रजंतम् पृष्ठतो अन्वगात्
७. गत्वा चतुर् अहम् मार्गम् विदेहान् अभ्युपेयिवान् ।
राजा तु जनकः श्रीमान् श्रुत्वा पूजाम् अकल्पयत्
८. ततो राजानम् आसाद्य वृद्धम् दशरथम् नृपम् ।
जनको मुदितो राजा हर्षम् च परमम् ययौ
९. उवाच वचनम् श्रेष्ठो नरश्रेष्ठम् मुदा अन्वितम् ।
स्वागतम् ते नरश्रेष्ठः दिष्ट्या प्राप्तो असि राघव
१०. पुत्रयोः उभयोः प्रीतिम् लप्स्यसे वीर्य निर्जिताम् ।
दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवान् ऋषिः
११. सह सर्वैः द्विज श्रेष्ठैः देवैः इव शतक्रतुः ।
दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितम् कुलम्
१२. राघवैः सह संबंधात् वीर्य श्रेष्ठैः महात्मभिः ।
श्वः प्रभाते नरेन्द्र त्वम् सम्वर्तयितुम् अर्हसि
१३. यज्ञस्य अन्ते नरश्रेष्ठ विवाहम् ऋषि सत्तमैः ।
तस्य तत् वचनम् श्रुत्वा ऋषि मध्ये नराधिपः
१४. वाक्यम् वाक्यविदाम् श्रेष्ठः प्रत्युवाच महीपतिम् ।
प्रतिग्रहो दातृ वशः श्रुतम् एतत् मया पुरा
१५. यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम् ।
तत् धर्मिष्ठम् यशस्यम् च वचनम् सत्य वादिनः
१६. श्रुत्वा विदेह अधिपतिः परम् विस्मयम् आगतः ।
ततः सर्वे मुनि गणाः परस्पर समागमे
१७. हर्षेण महता युक्ताः ताम् निशाम् अवसन् सुखम् ।
अथ रामो महातेजा लक्ष्मणेन समम् ययौ
१८. विश्वामित्रम् पुरस्कृत्य पितुः पादौ उपस्पृशन् ।
राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः
१९. उवास परम प्रीतो जनकेन सुपूजितः ।
जनको अपि महातेजाः क्रिया धर्मेण तत्त्ववित् ।
यज्ञस्य च सुताभ्याम् च कृत्वा रात्रिम् उवास ह