बाल काण्डBala kandaरामायणRamayanaरामRamaसर्ग ६१Sarga 61
१. विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तान् ऋषीन् ।
अब्रवीत् नरशार्दूल सर्वान् तान् वन वासिनः
२. महाविघ्नः प्रवृत्तो अयम् दक्षिणाम् आस्थितो दिशम् ।
दिशम् अन्याम् प्रपत्स्यामः तत्र तप्स्यामहे तपः
३. पश्चिमायाम् विशालायाम् पुष्करेषु महात्मनः ।
सुखम् तपः चरिष्यामः परम् तत् हि तपो वनम्
४. एवम् उक्त्वा महातेजाः पुष्करेषु महामुनिः ।
तप उग्रम् दुराधर्षम् तेपे मूल फल अशनः
५. एतस्मिन् एव काले तु अयोध्या अधिपतिः महान् ।
अंबरीष इति ख्यातो यष्टुम् समुपचक्रमे
६. तस्य वै यजमानस्य पशुम् इन्द्रो जहार ह ।
प्रणष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत्
७. पशुः अभ्याहृतः राजन् प्रणष्टः तव दुर्नयात् ।
अरक्षितारम् राजानम् घ्नन्ति दोषा नरेश्वर
८. प्रायः चित्तम् महत् हि एतत् नरम् वा पुरुषर्षभ ।
आनयस्व पशुम् शीघ्रम् यावत् कर्म प्रवर्तते
९. उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ ।
अन्वियेष महाबुद्धिः पशुम् गोभिः सहस्रशः
१०. देशान् जनपदान् तान् तान् नगराणि वनानि च ।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः
११. स पुत्र सहितम् तात स भार्यम् रघुनंदन ।
भृगुतुंगे समासीनम् ऋचीकम् संददर्श ह
१२. तम् उवाच महातेजाः प्रणम्य अभिप्रसाद्य च ।
महर्षिम् तपसा दीप्तम् राजर्षिः अमित प्रभः
१३. पृष्ट्वा सर्वत्र कुशलम् ऋचीकम् तम् इदम् वचः ।
गवाम् शत सहस्रेण विक्रीणीषे सुतम् यदि
१४. पशोः अर्थे महाभाग कृत कृत्यो अस्मि भार्गव ।
सर्वे परिगता देशा यज्ञियम् न लभे पशुम्
१५. दातुम् अर्हसि मूल्येन सुतम् एकम् इतो मम ।
एवम् उक्तो महातेजा ऋचीकः तु अब्रवीत् वचः
१६. न अहम् ज्येष्ठम् नर श्रेष्ठ विक्रीणीयाम् कथंचन ।
ऋचीकस्य वचः श्रुत्वा तेषाम् माता महात्मनाम्
१७. उवाच नर शार्दूलम् अंबरीषम् इदम् वचः ।
अविक्रेयम् सुतम् ज्येष्ठम् भगवान् आह भार्गवः
१८. मम अपि दयितम् विद्धि कनिष्ठम् शुनकम् प्रभो ।
तस्मात् कनीयसम् पुत्रम् न दास्ये तव पार्थिव
१९. प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।
मातॄणाम् च कनीयांसः तस्मात् रक्षे कनीयसम्
२०. उक्त वाक्ये मुनौ तस्मिन् मुनि पत्न्याम् तथैव च ।
शुनःशेपः स्वयम् राम मध्यमो वाक्यम् अब्रवीत्
२१. पिता ज्येष्ठम् अविक्रेयम् माता च आह कनीयसम् ।
विक्रेतम् मध्यमम् मन्ये राजपुत्र नयस्व माम्
२२. अथ राजा महाबाहो वाक्य अन्ते ब्रह्म वादिनः ।
हिरण्यस्य सुवर्णस्य कोटिभी रत्न राशिभिः
२३. गवाम् शत सहस्रेण शुनःशेपम् नरेश्वरः ।
गृहीत्वा परम प्रीतो जगाम रघुनंदन
२४. अंबरीषः तु राजर्षी रथम् आरोप्य सत्वरः ।
शुनःशेपम् महातेजा जगाम आशु महायशाः