Sanatan Gyan
सनातन ज्ञानSanatan Gyan

बाल काण्ड, सर्ग ५८Bala kanda, sarga 58

बाल काण्डBala kandaरामायणRamayanaरामRamaसर्ग ५८Sarga 58
१. ततः संतप्त हृदयः स्मरन् निग्रहम् आत्मनः ।
विनिःश्वस्य विनिःश्वस्य कृत वैरो महात्मना
२. स दक्षिणाम् दिशम् गत्वा महिष्या सह राघव ।
तताप परमम् घोरम् विश्वामित्रो महातपाः
३. फल मूल अशनो दान्तैः चचार महत् तपः ।
अथ अस्य जज्ञिरे पुत्राः सत्य धर्म परायणाः
४. हविष्पन्दो मधुष्यन्दो दृढनेत्रो महारथः ।
पूर्णे वर्ष सहस्रे तु ब्रह्मा लोक पितामहः
५. अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपो धनम् ।
जिता राजर्षि लोकाः ते तपसा कुशिक आत्मज
६. अनेन तपसा त्वाम् हि राज ऋषिर् इति विद्महे ।
एवम् उक्त्वा महातेजा जगाम सह दैवतैः
७. त्रिविष्टपम् ब्रह्म लोकम् लोकानाम् परम ईश्वरः ।
विश्वामित्रो अपि तत् श्रुत्वा ह्रिया किंचित् अवाङ्मुखः
८. दुःखेन महता आविष्टः स मन्युः इदम् अब्रवीत् ।
तपः च सुमहत् तप्तम् राज ऋषिर् इति माम् विदुः
९. देवाः स ऋषि गणाः सर्वे न अस्ति मन्ये तपः फलम् ।
एवम् निश्चित्य मनसा भूय एव महातपाः
१०. तपः चचार काकुत्स्थ परमम् परम आत्मवान् ।
एतस्मिन् एव काले तु सत्य वादी जित इन्द्रियः
११. त्रिशंकुः इति विख्यात इक्ष्वाकु कुल वर्धनः ।
तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव
१२. गच्छेयम् स्व शरीरेण देवानाम् परमाम् गतिम् ।
वसिष्ठम् स समाहूय कथयामास चिन्तितम्
१३. अशक्यम् इति च अपि उक्तो वसिष्ठेन महात्मना ।
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणाम् दिशम्
१४. ततः तत् कर्म सिद्धि अर्थम् पुत्रान् तस्य गतो नृपः ।
वासिष्ठा दीर्घ तपसः तपो यत्र हि तेपिरे
१५. त्रिशंकुः सुमहातेजाः शतम् परम भास्वरम् ।
वसिष्ठ पुत्रान् ददृशे तप्यमानान् यशस्विनः
१६. सो अभिगम्य महात्मानः सर्वान् एव गुरोः सुतान् ।
अभिवाद्य आनुपूर्व्येण ह्रिया किंचित् अवाङ्मुखः
१७. अब्रवीत् स महात्मनः सर्वान् एव कृतांजलिः ।
शरणम् वः प्रपद्ये अहम् शरण्यान् शरणागतः
१८. प्रत्याख्यातो अस्मि भद्रम् वो वसिष्ठेन महात्मना ।
यष्टु कामो महायज्ञम् तत् अनुज्ञातुम् अर्थथ
१९. गुरु पुत्रान् अहम् सर्वान् नमस् कृत्य प्रसादये ।
शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान्
२०. ते माम् भवन्तः सिद्धि अर्थम् याजयंतु समाहिताः ।
स शरीरो यथा अहम् वै देव लोकम् अवाप्नुयाम्
२१. प्रत्याख्यातो वसिष्ठेन गतिम् अन्याम् तपो धनाः ।
गुरु पुत्रान् ऋते सर्वान् न अहम् पश्यामि कांचन
२२. इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः ।
तस्मात् अनंतरम् सर्वे भवन्तो दैवतम् मम