Sanatan Gyan
सनातन ज्ञानSanatan Gyan

बाल काण्ड, सर्ग ४८Bala kanda, sarga 48

बाल काण्डBala kandaरामायणRamayanaरामRamaसर्ग ४८Sarga 48
१. पृष्ट्वा तु कुशलम् तत्र परस्पर समागमे ।
कथाअन्ते सुमतिः वाक्यम् व्याजहार महामुनिम्
२. इमौ कुमारौ भद्रम् ते देव तुल्य पराक्रमौ ।
गज सिंह गती वीरौ शार्दूल वृषभ उपमौ
३. पद्म पत्र विशालाक्षौ खड्ग तूणी धनुर् धरौ ।
अश्विनौ इव रूपेण समुपस्थित यौवनौ
४. यदृच्छया एव गाम् प्राप्तौ देवलोकात् इव अमरौ ।
कथम् पद्भ्याम् इह प्राप्तौ किम् अर्थम् कस्य वा मुने
५. भूषयन्तौ इमम् देशम् चन्द्र सूर्यौ इव अंबरम् ।
परस्परेण सदृशौ प्रमाण इन्गित चेष्टितैः
६. किम् अर्थम् च नर श्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि ।
वर आयुध धरौ वीरौ श्रोतुम् इच्छामि तत्त्वतः
७. तस्य तद् वचनम् श्रुत्वा यथा वृत्तम् न्यवेदयत् ।
सिद्ध आश्रम निवासम् च राक्षसानाम् वधम् तथा
८. विश्वामित्र वचः श्रुत्वा राजा परम विस्मितः
९. च्अतिथी परमौ प्राप्तम् पुत्रौ दशरथस्य तौ ।
पूजयामास विधिवत् सत्कार अर्हौ महाबलौ
१०. ततः परम सत्कारम् सुमतेः प्राप्य राघवौ ।
उष्य तत्र निशाम् एकाम् जग्मतुः मिथिलाम् ततः
११. ताम् दृष्ट्वा मुनयः सर्वे जनकस्य पुरीम् शुभाम् ।
साधु साधु इति शंसन्तो मिथिलाम् समपूजयन्
१२. मिथिल उपवने तत्र आश्रमम् दृश्य राघवः ।
पुराणम् निर्जनम् रम्यम् पप्रच्छ मुनि पुंगवम्
१३. इदम् आश्रम संकाशम् किम् नु इदम् मुनि वर्जितम् ।
श्रोतुम् इच्छामि भगवन् कस्य अयम् पूर्व आश्रमः
१४. तत् श्रुता राघवेण उक्तम् वाक्यम् वाक्य विशारदः ।
प्रति उवाच महातेजा विश्वमित्रो महामुनिः
१५. हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव ।
यस्य एतत् आश्रम पदम् शप्तम् कोपान् महात्मना
१६. गौतमस्य नरश्रेष्ठ पूर्वम् आसीत् महात्मनः ।
आश्रमो दिव्य संकाशः सुरैः अपि सुपूजितः
१७. स च अत्र तप आतिष्ठत् अहल्या सहितः पुरा ।
वर्ष पूगानि अनेकानि राजपुत्र महायशः
१८. तस्य अन्तरम् विदित्वा तु सहस्राक्षः शची पतिः ।
मुनि वेष धरो भूत्वा अहल्याम् इदम् अब्रवीत्
१९. ऋतु कालम् प्रतीक्षन्ते न अर्थिनः सुसमाहिते ।
संगमम् तु अहम् इच्छामि त्वया सह सुमध्यमे
२०. मुनि वेषम् सहस्राक्षम् विज्ञाय रघुनंदन ।
मतिम् चकार दुर्मेधा देव राज कुतूहलात्
२१. अथ अब्रवीत् सुरश्रेष्ठम् कृतार्थेन अंतरात्मना ।
कृतार्था अस्मि सुरश्रेष्ठ गच्छ शीघ्रम् इतः प्रभो
२२. आत्मानम् माम् च देवेश सर्वदा रक्ष गौतमात् ।
इन्द्रः तु प्रहसन् वाक्यम् अहल्याम् इदम् अब्रवीत्
२३. सुश्रोणि परितुष्टो अस्मि गमिष्यामि यथा आगतम् ।
एवम् संगम्य तु तया निश्चक्राम उटजात् ततः
२४. स संभ्रमात् त्वरन् राम शन्कितो गौतमम् प्रति ।
गौतमम् स ददर्श अथ प्रविशंतम् महामुनिम्
२५. देव दानव दुर्धर्षम् तपो बल समन्वितम् ।
तीर्थ उदक परिक्लिन्नम् दीप्यमानम् इव अनलम्
२६. गृहीत समिधम् तत्र स कुशम् मुनि पुंगवम् ।
दृष्ट्वा सुर पतिः त्रस्तो विषण्ण वदनो अभवत्
२७. अथ दृष्ट्वा सहस्राक्षम् मुनि वेष धरम् मुनिः ।
दुर्वृत्तम् वृत्त संपन्नो रोषात् वचनम् अब्रवीत्
२८. मम रूपम् समास्थाय कृतवान् असि दुर्मते ।
अकर्तव्यम् इदम् यस्मात् विफलः त्वम् भविष्यति
२९. गौतमेन एवम् उक्तस्य स रोषेण महात्मना ।
पेततुः वृषणौ भूमौ सहस्राक्षस्य तत् क्षणात्
३०. तथा शप्त्वा च वै शक्रम् भार्याम् अपि च शप्तवान् ।
इह वर्ष सहस्राणि बहूनि निवषिस्यसि
३१. वायु भक्षा निराहारा तप्यन्ती भस्म शायिनी ।
अदृश्या सर्व भूतानाम् आश्रमे अस्मिन् वषिस्यसि
३२. यदा तु एतत् वनम् घोरम् रामो दशरथ आत्मजः ।
आगमिष्यति दुर्धर्षः तदा पूता भविष्यसि
३३. तस्य आतिथ्येन दुर्वृत्ते लोभ मोह विवर्जिता ।
मत् सकाशे मुदा युक्ता स्वम् वपुः धारयिष्यसि
३४. एवम् उक्त्वा महातेजा गौतमो दुष्ट चारिणीम् ।
इमम् आश्रमम् उत्सृज्य सिद्ध चारण सेविते ।
हिमवत् शिखरे रम्ये तपः तेपे महातपाः