Sanatan Gyan
सनातन ज्ञानSanatan Gyan

बाल काण्ड, सर्ग २Bala kanda, sarga 2

बाल काण्डBala kandaरामायणRamayanaरामRamaसर्ग २Sarga 2
१. नारदस्य तु तद्वाक्यम् श्रुत्वा वाक्य विशारदः ।
पूजयामास धर्मात्मा सह शिष्यो महामुनिः
२. यथावत् पूजितः तेन देवर्षिः नारदः तथा ।
आपृच्छैव अभ्यनुज्ञातः स जगाम विहायसम्
३. स मुहूर्तं गते तस्मिन् देवलोकम् मुनिः तदा ।
जगाम तमसा तीरम् जाह्नव्यात् अविदूरतः
४. स तु तीरम् समासाद्य तमसाया मुनिः तदा ।
शिष्यम् आह स्थितम् पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम्
५. अकर्दमम् इदम् तीर्थम् भरद्वाज निशामय ।
रमणीयम् प्रसन्न अम्बु सन् मनुष्य मनो यथा
६. न्यस्यताम् कलशः तात दीयताम् वल्कलम् मम ।
इदम् एव अवगाहिष्ये तमसा तीर्थम् उत्तमम्
७. एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना ।
प्रयच्छत मुनेः तस्य वल्कलम् नियतः गुरोः
८. स शिष्य हस्तात् आदाय वल्कलम् नियतेन्द्रियः ।
विचचार ह पश्यन् तत् सर्वतो विपुलम् वनम्
९. तस्य अभ्याशे तु मिथुनम् चरन्तम् अनपायिनम् ।
ददर्श भगवान् तत्र क्रौङ्चयोः चारु निस्वनम्
१०. तस्मात् तु मिथुनात् एकम् पुमांसम् पाप निश्चयः ।
जघान वैरनिलयो निषादः तस्य पश्यतः
११. तम् शोणित परीताङ्गम् चेष्टमानम् महीतले ।
भार्या तु निहतम् दृष्ट्वा रुराव करुणाम् गिरम्
१२. वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
ताम्र शीर्षेण मत्तेन पत्रिणा सहितेन वै
१३. तथा विधिम् द्विजम् दृष्ट्वा निषादेन निपातितम् ।
ऋशेः धर्मात्मानः तस्य कारुण्यम् समपद्यत
१४. ततः करुण वेदित्वात् अधर्मो अयम् इति द्विजः ।
निशाम्य रुदतीम् क्रौन्चीम् इदम् वचनम् अब्रैइत्
१५. मा निषाद प्रतिष्ठाम्त्व ।
मगमः शाश्वतीः समाः ।
यत् क्रौङ्च मिथुनात् एक ।
मवधीः काम मोहितम्
१६. तस्य एवम् ब्रुवतः चिन्ता बभूव हृदि वीक्षतः ।
शोकार्तेन अस्य शकुनेः किम् इदम् व्याहृतम् मया
१७. चिन्तयन् स महाप्राज्ञः चकार मतिमान् मतिम् ।
शिश्यम् च एव अब्रवीत् वाक्यम् इदम् स मुनिपुङ्गवः
१८. पाद बद्धः अक्षर समः तन्त्री लय समन्वितः ।
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु न अन्यथा
१९. शिष्यः तु तस्य ब्रुवतो मुनेर् वाक्यम् अनुत्तमम् ।
प्रति जग्राह संतुष्टः तस्य तुष्टोअः अभवत् मुनिः
२०. सोऽभिषेकम् ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
तम् एव चिन्तयन् अर्थम् उपावर्तत वै मुनिः
२१. भरद्वाजः ततः शिष्यो विनीतः श्रुतवान् गुरोः ।
कलशम् पूर्णमादाय पृष्ठतः अनुजगाम ह
२२. स प्रविश्य आश्रम पदम् शिष्येण सह धर्मवित् ।
उपविष्टः कथाः च अन्याः चकार ध्यानमास्थितः
२३. आजगाम ततः ब्रह्मो लोककर्ता स्वयम् प्रभुः ।
चतुर् मुखो महातेजा द्रष्टुम् तम् मुनिपुङ्गवम्
२४. वाल्मीकिः अथ तम् दृष्ट्वा सहसा उत्थाय वाग्यतः ।
प्रान्जलिः प्रयतो भूत्वा तस्थौ परम विस्मितः
२५. पूजयामास तम् देवम् पाद्य अर्घ्य आसन वन्दनैः ।
प्रणम्य विधिवत् च एनम् पृष्ट्वा च एव निरामयम्
२६. अथ उपविश्य भगवान् आसने परम अर्चिते ।
वाल्मीकये च ऋषये सन्दिदेश आसनम् ततः
२७. ब्रह्मणा समनुज्ञातः सोऽपि उपाविशत् आसने ।
उपविष्टे तदा तस्मिन् साक्षात् लोक पितामहे
२८. तत् गतेन एव मनसा वाल्मीकिः ध्यानम् आस्थितः।
पापात्मना कृतम् कष्टम् वैर ग्रहण बुद्धिना
२९. यत् तादृशम् चारुरवम् क्रौन्चम् हन्यात् अकारणात्।
शोचन् एव पुनः क्रौन्चीम् उप श्लोकम् इमम् जगौ
३०. पुनर् अन्तर्गत मना भूत्वा शोक परायणः।
तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम्
३१. श्लोक एवास्त्वयाम् बद्धो न अत्र कार्या विचारणा।
मत् च्छन्दात् एव ते ब्रह्मन् प्रवृत्ते अयम् सरस्वती
३२. रामस्य चरितम् कृत्स्नम् कुरु त्वम् ऋषिसत्तम ।
धर्मात्मनो भगवतो लोके रामस्य धीमतः
३३. वृत्तम् कथय धीरस्य यथा ते नारदात् श्रुतम् ।
रहस्यम् च प्रकाशम् च यद् वृत्तम् तस्य धीमतः
३४. रामस्य सह सौमित्रे राक्षसानाम् च सर्वशः ।
वैदेह्याः च एव यद् वृत्तम् प्रकाशम् यदि वा रहः
३५. तत् च अपि अविदितम् सर्वम् विदितम् ते भविष्यति ।
न ते वाक् अनृता काव्ये काचित् अत्र भविष्यति
३६. कुरु राम कथाम् पुण्याम् श्लोक बद्धाम् मनोरमाम् ।
यावत् स्थास्यन्ति गिरयः सरितः च महीतले
३७. तावत् रामायण कथा लोकेषु प्रचरिष्यति ।
यावत् रामस्य च कथा त्वत् कृता प्रचरिष्यति
३८. तावत् ऊर्ध्वम् अधः च त्वम् मत् लोकेषु निवत्स्यसि ।
इति उक्त्वा भगवान् ब्रह्मा तत्र एव अन्तरधीयत ।
ततः स शिष्यो भगवान् मुनिः विस्मयम् आययौ
३९. तस्य शिष्याः ततः सर्वे जगुः श्लोकम् इमम् पुनः ।
मुहुर् मुहुः प्रीयमाणाः प्राहुः च भृश विस्मिताः
४०. समाक्षरैः चतुर्भिः यः पादैः गीतो महर्षिणा ।
सः अनुव्याहरणात् भूयः शोकः श्लोकत्वम् आगतः
४१. तस्य बुद्धिः इयम् जाता महर्षेः भावितात्मनः ।
कृत्स्नम् रामायणम् काव्यम् ईदृशैः करवाण्यहम्
४२. उदार वृत्त अर्थ पदैः मनोरमैःतदा अस्य रामस्य चकार कीर्तिमान् ।
सम अक्षरैः श्लोक शतैः यशस्विनोयशस्करम् काव्यम् उदार दर्शनः
४३. तद् उपगत समास सन्धि योगम्सम मधुरोपनत अर्थ वाक्य बद्धम् ।
रघुवर चरितम् मुनिप्रणीतम्दश शिरसः च वधम् निशामय अध्वम्