अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ८९Sarga 89
१. व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: ।
भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।
।
२.८९.१ ।
।
२. शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् ।
शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।
।
२.८९.२ ।
।
३. जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् ।
इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।
।
२.८९.३ ।
।
४. इति संवदतोरेवमन्योन्यं नरसिंहयो: ।
आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।
।
२.८९.४ ।
।
५. कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् ।
कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।
।
२.८९.५ ।
।
६. गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् ।
रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।
।
२.८९.६ ।
।
७. सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् ।
गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।
।
२.८९.७ ।
।
८. ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् ।
प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।
।
२.८९.८ ।
।
९. उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा ।
नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।
।
२.८९.९ ।
।
१०. ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् ।
पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।
।
२.८९.१० ।
।
११. अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: ।
शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।
।
२.८९.११ ।
।
१२. तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।
सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् ।
तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।
।
२.८९.१२ ।
।
१३. कौसल्या च सुमित्रा च याश्चान्या राजयोषित: ।
पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये ।
अनन्तरं राजदारास्तथैव शकटापणा: ।
।
२.८९.१३ ।
।
१४. आवासमादीपयतां तीर्थं चाप्यवगाहताम् ।
भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।
।
२.८९.१४ ।
।
१५. पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: ।
वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।
।
२.८९.१५ ।
।
१६. नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् ।
काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।
।
२.८९.१६ ।
।
१७. ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् ।
निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।
।
२.८९.१७ ।
।
१८. सवैजयन्तास्तु गजा गजारोहप्रचोदिता: ।
तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।
।
२.८९.१८ ।
।
१९. नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे ।
अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।
।
२.८९.१९ ।
।
२०. सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् ।
मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।
।
२.८९.२० ।
।
२१. आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।
।
२.८९.२१ ।
।
२२. स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य ।
ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।
।
२.८९.२२ ।
।