अयोध्या काण्डAyodhya kandaरामायणRamayanaरामRamaसर्ग ८५Sarga 85
१. एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् ।
प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम्
२. ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे ।
यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि
३. इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् ।
अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः
४. कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह ।
गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः
५. तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।
अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः
६. दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः ।
अहम् च अनुगमिष्यामि राज पुत्र महा यशः
७. कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः ।
इयम् ते महती सेना शन्काम् जनयति इव मे
८. तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः ।
भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत्
९. मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि ।
राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम
१०. तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् ।
बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते
११. स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् ।
पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः
१२. धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले ।
अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि
१३. शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति ।
यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि
१४. एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा ।
बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत
१५. सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः ।
शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत्
१६. राम चिन्तामयः शोको भरतस्य महात्मनः ।
उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः
१७. अन्तर् दाहेन दहनः सम्तापयति राघवम् ।
वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम्
१८. प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः ।
यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम्
१९. ध्यान निर्दर शैलेन विनिह्श्वसित धातुना ।
दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा
२०. प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।
आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः
२१. विनिश्श्वसन्वै भृशदुर्मनास्ततः ।
प्रमूढसम्ज्ञः परमापदम् गतः ।
शमम् न लेभे हृदयज्वरार्दितो ।
नरर्षभो यूथहतो यथर्षभः
२२. गुहेन सार्धम् भरतः समागतः ।
महा अनुभावः सजनः समाहितः ।
सुदुर्मनाः तम् भरतम् तदा पुनर् ।
गुहः समाश्वासयद् अग्रजम् प्रति