अरण्य काण्डAranya kandaरामायणRamayanaरामRamaसर्ग ५७Sarga 57
१. राक्षसम् मृग रूपेण चरन्तम् काम रूपिणम् ।
निहत्य रामो मारीचम् तूर्णम् पथि न्यवर्तत
२. तस्य संत्वरमाणस्य द्रष्टु कामस्य मैथिलीम् ।
क्रूर स्वरो अथ गोमायुः विननाद अस्य पृष्ठतः
३. स तस्य स्वरम् आज्ञाय दारुणम् रोम हर्षणम् ।
चिंतयामास गोमायोः स्वरेण परिशन्कितः
४. अशुभम् बत मन्ये अहम् गोमायुः वाश्यते यथा ।
स्वस्ति स्यात् अपि वैदेह्या राक्षसैः भक्षणम् विना
५. मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् ।
विक्रुष्टम् मृग रूपेण लक्ष्मणः शृणुयात् यदि
६. स सौमित्रिः स्वरम् श्रुत्वा ताम् च हित्वा अथ मैथिलीम् ।
तया एव प्रहितः क्षिप्रम् मत् सकाशम् इह एष्यति
७. राक्षसैः सहितैर् नूनम् सीताया ईप्सितो वधः ।
कांचनः च मृगो भूत्वा व्यपनीय आश्रमात् तु माम्
८. दूरम् नीत्वा अथ मारीचो राक्षसो अभूत् शर आहतः ।
हा लक्ष्मण हतो अस्मि इति यत् वाक्यम् व्यजहार ह
९. अपि स्वस्ति भवेत् द्वाभ्याम् रहिताभ्याम् मया वने ।
जनस्थान निमित्तम् हि कृत वैरो अस्मि राक्षसैः
१०. निमित्तानि च घोराणि दृश्यन्ते अद्य बहूनि च ।
इति एवम् चिंतयन् रामः श्रुत्वा गोमायु निःस्वनम्
११. निवर्तमानः त्वरितो जगाम आश्रमम् आत्मवान् ।
आत्मनः च अपनयनम् मृग रूपेण रक्षसा
१२. आजगाम जनस्थानम् राघवः परिशन्कितः ।
तम् दीन मानसम् दीनम् आसेदुः मृग पक्षिणः
१३. सव्यम् कृत्वा महात्मानम् घोराम् च ससृजुः स्वरान् ।
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।
न्यवर्तत अथ त्वरितो जवेन आश्रमम् आत्मनः
१४. ततो लक्षणम् आयान्तम् ददर्श विगत प्रभम् ।
ततो अविदूरे रामेण समीयाय स लक्ष्मणः
१५. विषण्णः स विषण्णेन दुःखितो दुःख भागिना ।
संजगर्हे अथ तम् भ्राता दृष्टा लक्ष्मणम् आगतम्
१६. विहाय सीताम् विजने वने राक्षस सेविते ।
गृहीत्वा च करम् सव्यम् लक्ष्मणम् रघुनंदनः
१७. उवाच मधुर उदर्कम् इदम् परुषम् आर्तवत् ।
अहो लक्ष्मण गर्ह्यम् ते कृतम् यः त्वम् विहाय ताम्
१८. सीताम् इह आगतः सौम्य कच्चित् स्वस्ति भवेत् इति ।
न मे अस्ति संशयो वीर सर्वथा जनकात्मजा
१९. विनष्टा भक्षिता वा अप राक्षसैः वन चारिभिः ।
अशुभानि एव भूयिष्ठम् यथा प्रादुर् भवन्ति मे
२०. अपि लक्ष्मण सीतायाः सामग्र्यम् प्राप्नुयावहे ।
जीवन्त्याः पुरुषव्याघ्र सुताया जनक्स्य वै
२१. यथा वै मृग संघाःअ गोमायुः च भैरवम् ।
वाश्यन्ते शकुनाः च अपि प्रदीप्ताम् अभितो दिशम् ।
अपि स्वस्ति भवेत् तस्या राज पुत्र्या महाबल
२२. इदम् हि रक्षो मृग संनिकाशम्प्रलोभ्य माम् दूरम् अनुप्रयातम् ।
हतम् कथंचित् महता श्रमेणस राक्षसो अभूत् म्रियमाण एव
२३. मनः च मे दीनम् इह अप्रहृष्टम्चक्षुः च सव्यम् कुरुते विकारम् ।
असंशयम् लक्ष्मण न अस्ति सीताहृता मृता वा पथि वर्तते वा