अरण्य काण्डAranya kandaरामायणRamayanaरामRamaसर्ग ३१Sarga 31
१. त्वरमणः ततो गत्वा जनस्थानात् अकंपनः ।
प्रविश्य लंकाम् वेगेन रावणम् वाक्यम् अब्रवीत्
२. जनस्थान स्थिता राजन् रक्षसा बहवो हताः ।
खरः च निहतः संख्ये क्थम्चित् अहम् आगतः
३. एवम् उक्तो दशग्रीवः क्रुद्धः संरकत लोचनः ।
अकंपनम् उवाच इदम् निर्दहन् इव तेजसा
४. केन भीमम् जनस्थानम् हतम् मम परासुना ।
को हि सर्वेषु लोकेषु गतिम् न अधिगमिष्यति
५. न हि मे विप्रियम् कृता शक्यम् मघवता सुखम् ।
प्रप्तुम् वैश्रवणेन अपि न यमेन च विष्णुना
६. कालस्य च अपि अहम् कलो दहेयम् अपि पावकम् ।
मृत्युम् मरण धर्मेण संयोजयितुम् उत्सहे
७. वातस्य तरसा वेगम् निहन्तुम् अपि च उत्सहे ।
दहेयम् अपि संक्रुद्धः तेजसा आदित्य पावकौ
८. तथा क्रुद्धम् दशग्रीवम् कृतांजलिः अकंपनः ।
भयात् संदिग्धया वचा रावणम् याचते अभयम्
९. दशग्रीवो अभयम् तस्मै प्रददौ रक्षसाम् वरः ।
स विस्रब्धो अब्रवीत् वाक्यम् असंदिग्धम् अकंपनः
१०. पुत्रो दशरथः ते सिंह संहननो युवा ।
रामो नाम महास्कंधो वृत्त आयत महाभुजः
११. श्यामः पृथुयशाः श्रीमान् अतुल्य बल विक्रमः ।
हतः तेन जनस्थाने खरः च सह दूषणः
१२. अकंपन वचः श्रुत्वा रावणो राक्षसाधिप ।
नागेन्द्र इव निःश्वस्य इदम् वचनम् अब्रवीत्
१३. स सुरेन्द्रेण संयुक्तो रामः सर्व अमरैः सह ।
उपयातो जनस्थानम् ब्रूहि कच्चित् अकंपन
१४. रावणस्य पुनर् वाक्यम् निशम्य तद् अकंपनः ।
आचचक्षे बलम् तस्य विक्रमम् च महात्मनः
१५. रामो नाम महातेजाः श्रेष्टः सर्व धनुष्मताम् ।
दिव्य अस्त्र गुण संपन्नः परम्धर्म गतो युधि
१६. तस्य अनुरूपो बलब्वान् रक्ताक्षो दुन्दुभि स्वनः ।
कनीयान् लक्ष्मणो भ्राता राका शशि निभ आननः
१७. स तेन सह संयुक्तः पावकेन अनिलो यथा ।
श्रीमान् राज वरः तेन जनस्थानम् निपातितम्
१८. न एव देवा महत्मनो न अत्र कार्या विचारणा ।
शरा रामेण तु उत्सृष्टा रुक्मपुंखाः पतत्रिणः
१९. सर्पाः पंचानना भूत्वा भक्षयन्ति स्म राक्षसान् ।
येन येन च गच्छन्ति राक्षसा भय कर्शिताः
२०. तेन तेन स्म पश्यन्ति रामम् एव अग्रतः स्थितम् ।
इत्थम् विनाशितम् जनस्थानम् तेन तव अनघ
२१. अकंपन अचः श्रुत्वा रावणो वाक्यम् अब्रवीत् ।
गमिष्यामि जनस्थनम् रामम् हन्तुम् स लक्ष्मणम्
२२. अथ एवम् उक्ते वचने प्रोवाच इदम् अकंपनः ।
श्रुणु राजन् यथा वृत्तम् रामस्य बल पौरुषम्
२३. असाध्यः कुपितो रामो विक्रमेण महायशाः ।
आप गायाः तु पूर्णाया वेगम् परिहरेत् शरैः
२४. स तारा ग्रह नक्षत्रम् नभः च अपि अवसादयेत् ।
असौ रामः तु सीदन्तीम् श्रीमान् अभ्युद्धरेत् महीम्
२५. भित्वा वेलाम् समुद्रस्य लोकान् आप्लावयेत् विभुः ।
वेगम् वा अपि समुद्रस्य वाअयुम् वा विधमेत् शरैः
२६. संहृत्य वा पुनर् लोकान् विक्रमेण महायशाः ।
शकतः श्रेष्ठः स पुरुषः स्रष्टुम् पुनर् अपि प्रजाः
२७. न हि रामो दशग्रीव शक्यो जेतुम् रणे त्वया ।
रक्षसाम् वा अपि लोकेन स्वर्गः पाप जनैः इव
२८. न तम् वध्यम् अहम् मन्ये सर्वैः देव असुरैः अपि ।
अयम् अस्य वध उपाय तत् एकमनाः शृउणु
२९. भार्या तस्य उत्तमा लोके सीता नाम सुमध्यमा ।
श्यामा सम विभक्त अंगी स्त्री रत्नम् रत्न बूषिता
३०. न एव देवी न गन्धर्वी न अप्सरा न च पन्नगी ।
तुल्या सीमन्तिनी तस्या मानुषी तु कुतो भवेत्
३१. तस्य अपहर भार्याम् त्वम् तम् प्रमथ्य महावने ।
सीताया रहितो रामो न च एव हि भविष्यति
३२. अरोचयत् तद् वाक्यम् रावणो राक्षस अधिपः ।
चिंतयित्वा महाबाहुः अकंपनम् उवाच
३३. बाढम् कल्यम् गमिष्यामि हि एकः सारथिना सह ।
आनेष्यामि च वैदेहीम् इमाम् हृष्टो महा पुरीम्
३४. तत् एवम् उक्त्वा प्रययौ खर युक्तेन रावणः ।
रथेन आदित्य वर्णेन दिशः सर्वाः प्रकाशयन्
३५. स रथो राक्षस इंद्रस्य नक्षत्र पथगो महान् ।
चंचूर्यमानः शुशुभे जलदे चंद्रमा इव
३६. स दूरे च आश्रमम् गत्वा ताटकेयम् उपागतम् ।
मारीचेन अर्चितो राजा भक्ष्य भोज्यैः अमानुषैः
३७. तम् स्वयम् पूजयित्वा तु आसनेन उदकेन च ।
अर्थ उपहितया वाचा मारीचो वाक्यम् अब्रवीत्
३८. कश्चित् सुकुशलम् राजन् लोकानाम् राक्षसाधिप ।
आशंके न अथ जाने त्वम् यतः तूर्णम् उपागतम्
३९. एवम् उक्तो महातेजा मारीचेन स रावण ।
ततः पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य कोविदः
४०. आरक्षो मे हतः तात रामेण अक्लिष्ट कारिणा ।
जनस्थानम् अवध्यम् तत् सर्वम् युधि निपातितम्
४१. तस्य मे कुरु साचिव्यम् तस्य भार्य अपहरणे ।
राक्षसेन्द्र वचः श्रुत्वा मारीचो वाक्यम् अब्रवीत्
४२. आख्याता केन वा सीता मित्र रूपेण शत्रुणा ।
त्वया राक्षस शार्दूल को न नंदति नंदितः
४३. सीताम् इह आनस्व इति को ब्रवीति ब्रवीहि मे ।
रक्षो लोकस्य सर्वस्य कः शृंगम् च्छेत्तुम् इच्छति
४४. प्रोत्साहयति यः च त्वम् स च शत्रुः असंशयम् ।
आशी मुखात् दंष्ट्राम् उद्धर्तुम् च इच्छति त्वया
४५. कर्मणा अनेन केन असि कापथम् प्रतिपादितः ।
सुख सुप्तस्य ते राजन् प्रहृतम् केन मूर्धनि
४६. विशुद्ध वंश अभिजना अग्र हस्तःतेजो मदः संस्थित दोर्??? विषाणः ।
उदीक्षितुम् रावण न इह युक्तःस संयुगे राघव गन्धि हस्ती
४७. असौ रण अन्तः स्थिति संधि वालःविदग्ध रक्षो मृग हा नृसिंहः ।
सुप्तः त्वया बोधयितुम् न शक्यःशारांग पुर्णो निशित असि दंष्ट्Rअः
४८. चापापहारे भुज वेग पंकेशर ऊर्मिमाले सु महा आहव ओघे ।
न राम पाताल मुखे अति घोरेप्रस्कन्दितुम् राक्षस राज युक्तम्
४९. प्रसीद लंकेश्वर राक्षसेन्द्रलंकाम् प्रसन्नो भव साधु गच्छ ।
त्वम् स्वेषु दारेषु रमस्व नित्यम्रामः स भार्यो रमताम् वनेषु
५०. एवम् उक्तो दशग्रीवो मारीचेन स रावणः ।
न्यवर्तत पुरीम् लंकाम् विवेश च गृह उत्तमम्