Sanatan Gyan
सनातन ज्ञानSanatan Gyan

द्रोण पर्व, अध्याय ४६Drona parva, chapter 46

द्रोण पर्वDrona parvaमहाभारतMahabharataअध्याय ४६Chapter 46
१. धृतराष्ट्र उवाच
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्
कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम्
२. आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः
प्लवमानमिवाकाशे के शूराः समवारयन्
३. संजय उवाच
अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः
अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः
४. तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्
५. दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्
६. सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः
तालमात्राणि चापानि विकर्षन्तो महारथाः
७. तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्
व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा
८. द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम्
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः
९. रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः
१०. स कर्णं कर्णिना कर्णे पीतेन निशितेन च
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा
११. पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
१२. ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव वीराणां पश्यतामवधीद्बली
१३. तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत्
वरं वरममित्राणामारुजन्तमभीतवत्
१४. स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः
१५. षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्
१६. स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः
प्रत्यविध्यन्महातेजा बलवानपकारिणम्
१७. तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्
अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे
१८. कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश
१९. तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः
२०. तं कोसलानामधिपः कर्णिनाताडयद्धृदि
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ
२१. अथ कोसलराजस्तु विरथः खड्गचर्मधृत्
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्
२२. स कोसलानां भर्तारं राजपुत्रं बृहद्बलम्
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत्
२३. बभञ्ज च सहस्राणि दश राजन्महात्मनाम्
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम्
२४. तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे
विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः