Sanatan Gyan
सनातन ज्ञानSanatan Gyan

द्रोण पर्व, अध्याय १०५Drona parva, chapter 105

द्रोण पर्वDrona parvaमहाभारतMahabharataअध्याय १०५Chapter 105
१. संजय उवाच
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात्
त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन्
२. स रथस्तव पुत्रस्य त्वरया परया युतः
तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान्
३. उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः
४. विजित्य सर्वसैन्यानि सुमहान्ति महारथाः
संप्राप्ताः सिन्धुराजस्य समीपमरिकर्शनाः
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः
५. यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद
६. आश्चर्यभूतं लोकेऽस्मिन्समुद्रस्येव शोषणम्
निर्जयं तव विप्राग्र्य सात्वतेनार्जुनेन च
७. तथैव भीमसेनेन लोकः संवदते भृशम्
कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः
८. नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे
यत्र त्वां पुरुषव्याघ्रमतिक्रान्तास्त्रयो रथाः
९. एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम्
यद्गतं गतमेवेह शेषं चिन्तय मानद
१०. यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्
तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम्
११. द्रोण उवाच
चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः
यावदेव भयं पश्चात्तावदेषां पुरःसरम्
१२. तद्गरीयस्तरं मन्ये यत्र कृष्णधनंजयौ
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः
१३. तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम्
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनंजयात्
१४. गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ
संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम्
१५. न सभायां जयो वृत्तो नापि तत्र पराजयः
इह नो ग्लहमानानामद्य तात जयाजयौ
१६. यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि
अक्षान्संमन्यमानः स प्राक्शरास्ते दुरासदाः
१७. यत्र ते बहवस्तात कुरवः पर्यवस्थिताः
सेनां दुरोदरं विद्धि शरानक्षान्विशां पते
१८. ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः
सैन्धवे हि महाद्यूतं समासक्तं परैः सह
१९. अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ
तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ
२०. यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्
तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः
२१. इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः
२२. ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात्
उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः
२३. चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम्
२४. तौ हि पूर्वं महाराज वारितौ कृतवर्मणा
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया
२५. ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम्
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली
२६. तावभिद्रवतामेनमुभावुद्यतकार्मुकौ
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि
२७. युधामन्युस्तु संक्रुद्धः शरांस्त्रिंशतमायसान्
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे
२८. दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः
जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी
२९. उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन्
३०. स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि
३१. हयेषु पतितेष्वस्य चिच्छेद परमेषुणा
युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे
३२. हताश्वसूतात्स रथादवप्लुत्य महारथः
गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत
३३. तमापतन्तं संप्रेक्ष्य क्रुद्धं परपुरंजयम्
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ
३४. ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी
गदया पोथयामास साश्वसूतध्वजं रणे
३५. हत्वा चैनं स पुत्रस्ते हताश्वो हतसारथिः
मद्रराजरथं तूर्णमारुरोह परंतपः
३६. पाञ्चालानां तु मुख्यौ तौ राजपुत्रौ महाबलौ
रथमन्यं समारुह्य धनंजयमभीयतुः