Sanatan Gyan
सनातन ज्ञानSanatan Gyan

अनुशासन पर्व, अध्याय ६६Anushasana parva, chapter 66

अनुशासन पर्वAnushasana parvaमहाभारतMahabharataअध्याय ६६Chapter 66
१. युधिष्ठिर उवाच
श्रुतं दानफलं तात यत्त्वया परिकीर्तितम्
अन्नं तु ते विशेषेण प्रशस्तमिह भारत
२. पानीयदानं परमं कथं चेह महाफलम्
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह
३. भीष्म उवाच
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ
४. यदन्नं यच्च पानीयं संप्रदायाश्नुते नरः
न तस्मात्परमं दानं किंचिदस्तीति मे मतिः
५. अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते
६. अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः
७. सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम्
यतश्चैतद्यथा चैतद्देवसत्रे महामते
८. अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत
प्राणदानाद्धि परमं न दानमिह विद्यते
९. श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा
१०. तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते
गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम्
११. अन्नं चापि प्रभवति पानीयात्कुरुसत्तम
नीरजातेन हि विना न किंचित्संप्रवर्तते
१२. नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः
अमृतं च सुधा चैव स्वाहा चैव वषट्तथा
१३. अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः
यतः प्राणभृतां प्राणाः संभवन्ति विशां पते
१४. देवानाममृतं चान्नं नागानां च सुधा तथा
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः
१५. अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः
तच्च सर्वं नरव्याघ्र पानीयात्संप्रवर्तते
१६. तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्
तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः
१७. धन्यं यशस्यमायुष्यं जलदानं विशां पते
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः
१८. सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम्
प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते
१९. तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः