Sanatan Gyan
सनातन ज्ञानSanatan Gyan

शान्ति पर्व, अध्याय ६२Shanti parva, chapter 62

शान्ति पर्वShanti parvaमहाभारतMahabharataअध्याय ६२Chapter 62
१. युधिष्ठिर उवाच
शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान्
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान्
२. भीष्म उवाच
ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो
वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम
३. उक्तानि कर्माणि बहूनि राज;न्स्वर्ग्याणि राजन्यपरायणानि
नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत्
४. क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन्
अस्मिँल्लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति
५. या संज्ञा विहिता लोके दासे शुनि वृके पशौ
विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव
६. षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि
सर्वधर्मोपपन्नस्य संभूतस्य कृतात्मनः
७. ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च
निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः
८. यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च
तादृशं तादृशेनैव स गुणं प्रतिपद्यते
९. वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च
वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत्
१०. कालसंचोदितः कालः कालपर्यायनिश्चितः
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः
११. अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च
स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः