Sanatan Gyan
सनातन ज्ञानSanatan Gyan

शान्ति पर्व, अध्याय ३४६Shanti parva, chapter 346

शान्ति पर्वShanti parvaमहाभारतMahabharataअध्याय ३४६Chapter 346
१. भीष्म उवाच
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना
निराहारेण वसता दुःखितास्ते भुजंगमाः
२. सर्वे संभूय सहितास्तस्य नागस्य बान्धवाः
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति
३. तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम्
समासीनं निराहारं द्विजं जप्यपरायणम्
४. ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत्
ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः
५. षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन
न चाभिलषसे किंचिदाहारं धर्मवत्सल
६. अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः
कार्यं चातिथ्यमस्माभिर्वयं सर्वे कुटुम्बिनः
७. मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण
८. त्यक्ताहारेण भवता वने निवसता सता
बालवृद्धमिदं सर्वं पीड्यते धर्मसंकटात्
९. न हि नो भ्रूणहा कश्चिद्राजापथ्योऽनृतोऽपि वा
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु
१०. ब्राह्मण उवाच
उपदेशेन युष्माकमाहारोऽयं मया वृतः
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति
११. यद्यष्टरात्रे निर्याते नागमिष्यति पन्नगः
तदाहारं करिष्यामि तन्निमित्तमिदं व्रतम्
१२. कर्तव्यो न च संतापो गम्यतां च यथागतम्
तन्निमित्तं व्रतं मह्यं नैतद्भेत्तुमिहार्हथ
१३. भीष्म उवाच
तेन ते समनुज्ञाता ब्राह्मणेन भुजंगमाः
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ