Sanatan Gyan
सनातन ज्ञानSanatan Gyan

शान्ति पर्व, अध्याय ३२३Shanti parva, chapter 323

शान्ति पर्वShanti parvaमहाभारतMahabharataअध्याय ३२३Chapter 323
१. भीष्म उवाच
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते
बभूवुर्निर्वृता देवा जाते देवपुरोहिते
२. बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः
३. तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम्
४. स राजा भावितः पूर्वं दैवेन विधिना वसुः
पालयामास पृथिवीं दिवमाखण्डलो यथा
५. तस्य यज्ञो महानासीदश्वमेधो महात्मनः
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह
६. प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
७. धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः
८. ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः
कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः
९. आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः
संभृताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ
१०. न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत्
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः
आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः
११. प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित्
१२. स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्
अदृश्येन हृतो भागो देवेन हरिमेधसा
१३. बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः
आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत्
१४. उवाच चोपरिचरं मया भागोऽयमुद्यतः
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः
१५. उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह
किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः
१६. ततः स तं समुद्धूतं भूमिपालो महान्वसुः
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः
१७. ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि
नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः
१८. अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः
न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति
१९. एकतद्वितत्रिता ऊचुः
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम्
२०. तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः
२१. मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः
स देशो यत्र नस्तप्तं तपः परमदारुणम्
कथं पश्येमहि वयं देवं नारायणं त्विति
२२. ततो व्रतस्यावभृथे वागुवाचाशरीरिणी
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना
२३. यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम्
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः
२४. तत्र नारायणपरा मानवाश्चन्द्रवर्चसः
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम्
२५. ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
२६. एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः
२७. अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे
२८. प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः
ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत्
२९. न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम्
३०. न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्
३१. व्रतावसाने सुशुभान्नरान्ददृशिरे वयम्
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान्
३२. नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान्
मानसो नाम स जपो जप्यते तैर्महात्मभिः
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः
३३. या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये
एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह
३४. तेजोनिवासः स द्वीप इति वै मेनिरे वयम्
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः
३५. अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते
३६. सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम्
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः
३७. ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम्
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः
३८. वयं तु तेजसा तस्य सहसा हृतचेतसः
न किंचिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः
३९. एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन
४०. नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः
४१. एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा
४२. तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया
४३. मारुते संनिवृत्ते च बलौ च प्रतिपादिते
चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर
४४. मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु
अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत्
४५. तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः
४६. ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान्
उवाच खस्थं किमपि भूतं तत्राशरीरकम्
४७. दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः
४८. गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात्
न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन
४९. कामं कालेन महता एकान्तित्वं समागतैः
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः
५०. महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च
५१. वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ
५२. ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा
५३. एवं सुतपसा चैव हव्यकव्यैस्तथैव च
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक्
५४. भीष्म उवाच
एवमेकतवाक्येन द्वितत्रितमतेन च
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः
समानीय ततो यज्ञं दैवतं समपूजयत्
५५. समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः
५६. अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः
नारायणपरो भूत्वा नारायणपदं जगौ
५७. तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम्
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा