शान्ति पर्वShanti parvaमहाभारतMahabharataअध्याय २५१Chapter 251
१. युधिष्ठिर उवाच
इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह
२. धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत्
उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह
३. भीष्म उवाच
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्
चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम्
४. अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः
उभयत्र सुखोदर्क इह चैव परत्र च
५. अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति
न च पापकृतः पापान्मुच्यन्ते केचिदापदि
६. अपापवादी भवति यदा भवति धर्मवित्
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे
७. यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः
रमते निर्हरन्स्तेनः परवित्तमराजके
८. यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः
९. अभीतः शुचिरभ्येति राजद्वारमशङ्कितः
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति
१०. सत्यस्य वचनं साधु न सत्याद्विद्यते परम्
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्
११. अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक्
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः
ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम्
१२. न हर्तव्यं परधनमिति धर्मः सनातनः
मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम्
यदा नियतिदौर्बल्यमथैषामेव रोचते
१३. न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा
तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन
१४. असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः
न किंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत्
१५. सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान्
बहुधाचरितं पापमन्यत्रैवानुपश्यति
१६. मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति
१७. दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः
तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम्
१८. यदा नियतिकार्पण्यमथैषामेव रोचते
न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा
१९. यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः
२०. योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति
यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः
२१. जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत्
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत्
२२. अतिरिक्तैः संविभजेद्भोगैरन्यानकिंचनान्
एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम्
२३. यस्मिंस्तु देवाः समये संतिष्ठेरंस्तथा भवेत्
अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना
२४. सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर
२५. लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम्
२६. धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम
तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन