Sanatan Gyan
सनातन ज्ञानSanatan Gyan

शान्ति पर्व, अध्याय २४४Shanti parva, chapter 244

शान्ति पर्वShanti parvaमहाभारतMahabharataअध्याय २४४Chapter 244
१. व्यास उवाच
द्वंद्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः
वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्
२. आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु
३. अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्
तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित्
४. चरणं मारुतात्मेति प्राणापानौ च तन्मयौ
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम्
५. ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम्
तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम्
६. प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः
७. संघातः पार्थिवो धातुरस्थिदन्तनखानि च
श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च
८. इन्द्रियं घ्राणसंज्ञानं नासिकेत्यभिधीयते
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः
९. उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः
पञ्चानां भूतसंघानां संततिं मुनयो विदुः
१०. मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता
एकादशोऽन्तरात्मा च सर्वतः पर उच्यते
११. व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः
१२. एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम्
पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते