Sanatan Gyan
सनातन ज्ञानSanatan Gyan

शान्ति पर्व, अध्याय २४१Shanti parva, chapter 241

शान्ति पर्वShanti parvaमहाभारतMahabharataअध्याय २४१Chapter 241
१. व्यास उवाच
सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वनुतिष्ठति
गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः
२. स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान्
ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान्
३. प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे
४. उभयं संप्रधार्यैतदध्यवस्येद्यथामति
अनेनैव विधानेन भवेद्गर्भशयो महान्
५. अनादिनिधनं नित्यमासाद्य विचरेन्नरः
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः
६. इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्
अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः
७. तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा
८. न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित्
एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः
९. एवं बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्
समवेक्ष्य शनैः सम्यग्लभते शममुत्तमम्
१०. एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम्
११. एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः
१२. न भवति विदुषां महद्भयं; यदविदुषां सुमहद्भयं भवेत्
न हि गतिरधिकास्ति कस्यचि;द्भवति हि या विदुषः सनातनी
१३. लोकमातुरमसूयते जन;स्तत्तदेव च निरीक्ष्य शोचते
तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं कृताकृतम्
१४. यत्करोत्यनभिसंधिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम्
न प्रियं तदुभयं न चाप्रियं; तस्य तज्जनयतीह कुर्वतः