Sanatan Gyan
सनातन ज्ञानSanatan Gyan

शान्ति पर्व, अध्याय ११५Shanti parva, chapter 115

शान्ति पर्वShanti parvaमहाभारतMahabharataअध्याय ११५Chapter 115
१. युधिष्ठिर उवाच
विद्वान्मूर्खप्रगल्भेन मृदुस्तीक्ष्णेन भारत
आक्रुश्यमानः सदसि कथं कुर्यादरिंदम
२. भीष्म उवाच
श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते
सदा सुचेताः सहते नरस्येहाल्पचेतसः
३. अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति
दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै
४. टिट्टिभं तमुपेक्षेत वाशमानमिवातुरम्
लोकविद्वेषमापन्नो निष्फलं प्रतिपद्यते
५. इति स श्लाघते नित्यं तेन पापेन कर्मणा
इदमुक्तो मया कश्चित्संमतो जनसंसदि
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठति
६. श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः
७. यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्सदा
प्राकृतो हि प्रशंसन्वा निन्दन्वा किं करिष्यति
वने काक इवाबुद्धिर्वाशमानो निरर्थकम्
८. यदि वाग्भिः प्रयोगः स्यात्प्रयोगे पापकर्मणः
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः
९. निषेकं विपरीतं स आचष्टे वृत्तचेष्टया
मयूर इव कौपीनं नृत्यन्संदर्शयन्निव
१०. यस्यावाच्यं न लोकेऽस्ति नाकार्यं वापि किंचन
वाचं तेन न संदध्याच्छुचिः संक्लिष्टकर्मणा
११. प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः
स मानवः श्ववल्लोके नष्टलोकपरायणः
१२. तादृग्जनशतस्यापि यद्ददाति जुहोति च
परोक्षेणापवादेन तन्नाशयति स क्षणात्
१३. तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम्
वर्जयेत्साधुभिर्वर्ज्यं सारमेयामिषं यथा
१४. परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोच्छ्रितम्
१५. तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति
१६. मनुष्यशालावृकमप्रशान्तं; जनापवादे सततं निविष्टम्
मातङ्गमुन्मत्तमिवोन्नदन्तं; त्यजेत तं श्वानमिवातिरौद्रम्
१७. अधीरजुष्टे पथि वर्तमानं; दमादपेतं विनयाच्च पापम्
अरिव्रतं नित्यमभूतिकामं; धिगस्तु तं पापमतिं मनुष्यम्
१८. प्रत्युच्यमानस्तु हि भूय एभि;र्निशाम्य मा भूस्त्वमथार्तरूपः
उच्चस्य नीचेन हि संप्रयोगं; विगर्हयन्ति स्थिरबुद्धयो ये
१९. क्रुद्धो दशार्धेन हि ताडयेद्वा; स पांसुभिर्वापकिरेत्तुषैर्वा
विवृत्य दन्तांश्च विभीषयेद्वा; सिद्धं हि मूर्खे कुपिते नृशंसे
२०. विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान्नरः
पठेदिदं चापि निदर्शनं सदा; न वाङ्मयं स लभति किंचिदप्रियम्