Sanatan Gyan
सनातन ज्ञानSanatan Gyan

आदि पर्व, अध्याय ३३Adi parva, chapter 33

आदि पर्वAdi parvaमहाभारतMahabharataअध्याय ३३Chapter 33
१. सूत उवाच
मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्
२. ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः
ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः
३. वासुकिरुवाच
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे
४. सर्वेषामेव शापानां प्रतिघातो हि विद्यते
न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः
५. अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः
६. नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः
न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत्
७. तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम्
यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम्
८. अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्
९. यथा स यज्ञो न भवेद्यथा वापि पराभवेत्
जनमेजयस्य सर्पाणां विनाशकरणाय हि
१०. सूत उवाच
तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः
११. एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः
जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति
१२. अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः
१३. स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्
तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते
१४. स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्
१५. दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः
१६. अथ वा य उपाध्यायः क्रतौ तस्मिन्भविष्यति
सर्पसत्रविधानज्ञो राजकार्यहिते रतः
१७. तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति
तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति
१८. ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति
१९. तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजंगमाः
अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना
२०. सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्
२१. अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः
२२. स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति
२३. यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः
जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति
२४. अथ वा संस्कृतं भोज्यं दूषयन्तु भुजंगमाः
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना
२५. अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति
वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम्
२६. अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्
गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः
२७. अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः
दशामैनं प्रगृह्याशु कृतमेवं भविष्यति
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति
२८. एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता
यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम्
२९. इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम्
वासुकिश्चापि संचिन्त्य तानुवाच भुजंगमान्
३०. नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजंगमाः
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते
३१. किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम्
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ