Sanatan Gyan
सनातन ज्ञानSanatan Gyan

आदि पर्व, अध्याय १८४Adi parva, chapter 184

आदि पर्वAdi parvaमहाभारतMahabharataअध्याय १८४Chapter 184
१. वैशंपायन उवाच
धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम्
२. सोऽज्ञायमानः पुरुषानवधाय समन्ततः
स्वयमारान्निविष्टोऽभूद्भार्गवस्य निवेशने
३. सायेऽथ भीमस्तु रिपुप्रमाथी; जिष्णुर्यमौ चापि महानुभावौ
भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुरदीनसत्त्वाः
४. ततस्तु कुन्ती द्रुपदात्मजां ता;मुवाच काले वचनं वदान्या
अतोऽग्रमादाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम्
५. ये चान्नमिच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितो मनुष्याः
ततश्च शेषं प्रविभज्य शीघ्र;मर्धं चतुर्णां मम चात्मनश्च
६. अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभतुल्यरूपः
श्यामो युवा संहननोपपन्न; एषो हि वीरो बहुभुक्सदैव
७. सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्वविशङ्कमाना
यथावदुक्तं प्रचकार साध्वी; ते चापि सर्वेऽभ्यवजह्रुरन्नम्
८. कुशैस्तु भूमौ शयनं चकार; माद्रीसुतः सहदेवस्तरस्वी
यथात्मीयान्यजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर्धरण्याम्
९. अगस्त्यशास्तामभितो दिशं तु; शिरांसि तेषां कुरुसत्तमानाम्
कुन्ती पुरस्तात्तु बभूव तेषां; कृष्णा तिरश्चैव बभूव पत्तः
१०. अशेत भूमौ सह पाण्डुपुत्रैः; पादोपधानेव कृता कुशेषु
न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस्तान्
११. ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः
अस्त्राणि दिव्यानि रथांश्च नागा;न्खड्गान्गदाश्चापि परश्वधांश्च
१२. तेषां कथास्ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस्तदानीम्
शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर्मनुष्याः
१३. धृष्टद्युम्नो राजपुत्रस्तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ
सर्वं राज्ञे द्रुपदायाखिलेन; निवेदयिष्यंस्त्वरितो जगाम
१४. पाञ्चालराजस्तु विषण्णरूप;स्तान्पाण्डवानप्रतिविन्दमानः
धृष्टद्युम्नं पर्यपृच्छन्महात्मा; क्व सा गता केन नीता च कृष्णा
१५. कच्चिन्न शूद्रेण न हीनजेन; वैश्येन वा करदेनोपपन्ना
कच्चित्पदं मूर्ध्नि न मे निदिग्धं; कच्चिन्माला पतिता न श्मशाने
१६. कच्चित्सवर्णप्रवरो मनुष्य; उद्रिक्तवर्णोऽप्युत वेह कच्चित्
कच्चिन्न वामो मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतोऽद्य पुत्र
१७. कच्चिच्च यक्ष्ये परमप्रतीतः; संयुज्य पार्थेन नरर्षभेण
ब्रवीहि तत्त्वेन महानुभावः; कोऽसौ विजेता दुहितुर्ममाद्य
१८. विचित्रवीर्यस्य तु कच्चिदद्य; कुरुप्रवीरस्य धरन्ति पुत्राः
कच्चित्तु पार्थेन यवीयसाद्य; धनुर्गृहीतं निहतं च लक्ष्यम्