Sanatan Gyan
सनातन ज्ञानSanatan Gyan

आदि पर्व, अध्याय १७४Adi parva, chapter 174

आदि पर्वAdi parvaमहाभारतMahabharataअध्याय १७४Chapter 174
१. अर्जुन उवाच
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित्
पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव
२. गन्धर्व उवाच
यवीयान्देवलस्यैष वने भ्राता तपस्यति
धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ
३. वैशंपायन उवाच
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि
गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत्
४. त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम
कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत्
५. तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह
रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे
६. तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते
तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत
७. तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः
पाद्येन फलमूलेन पौरोहित्येन चैव ह
८. ते तदाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः
तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्
९. मातृषष्ठास्तु ते तेन गुरुणा संगतास्तदा
नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः
१०. स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः
तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः
११. वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः
बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान्
१२. कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः
मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम्