Sanatan Gyan
सनातन ज्ञानSanatan Gyan

आदि पर्व, अध्याय १५६Adi parva, chapter 156

आदि पर्वAdi parvaमहाभारतMahabharataअध्याय १५६Chapter 156
१. वैशंपायन उवाच
एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन्
सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः
२. ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी
३. चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने
रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर
४. यानीह रमणीयानि वनान्युपवनानि च
सर्वाणि तानि दृष्टानि पुनः पुनररिंदम
५. पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन
६. ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे
अपूर्वदर्शनं तात रमणीयं भविष्यति
७. सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन
यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः
८. एकत्र चिरवासो हि क्षमो न च मतो मम
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे
९. युधिष्ठिर उवाच
भवत्या यन्मतं कार्यं तदस्माकं परं हितम्
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः
१०. वैशंपायन उवाच
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा
११. तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः