Sanatan Gyan
सनातन ज्ञानSanatan Gyan

आदि पर्व, अध्याय १४४Adi parva, chapter 144

आदि पर्वAdi parvaमहाभारतMahabharataअध्याय १४४Chapter 144
१. वैशंपायन उवाच
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून्
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः
२. मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च
३. जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः
सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः
४. क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः
५. ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः
नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम्
६. तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः
७. व्यास उवाच
मयेदं मनसा पूर्वं विदितं भरतर्षभाः
यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः
८. तद्विदित्वास्मि संप्राप्तश्चिकीर्षुः परमं हितम्
न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः
९. समास्ते चैव मे सर्वे यूयं चैव न संशयः
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः
१०. तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम्
स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत
११. इदं नगरमभ्याशे रमणीयं निरामयम्
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः
१२. वैशंपायन उवाच
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान्
एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः
१३. जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट्
१४. धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः
१५. पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा
१६. यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम्
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः
१७. अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च
पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः
१८. एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने
अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा
१९. इह मां संप्रतीक्षध्वमागमिष्याम्यहं पुनः
देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम्
२०. स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप
जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः