Sanatan Gyan
सनातन ज्ञानSanatan Gyan

आदि पर्व, अध्याय १३०Adi parva, chapter 130

आदि पर्वAdi parvaमहाभारतMahabharataअध्याय १३०Chapter 130
१. वैशंपायन उवाच
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम्
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्
२. धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः
३. नास्य किंचिन्न जानामि भोजनादि चिकीर्षितम्
निवेदयति नित्यं हि मम राज्यं धृतव्रतः
४. तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः
गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः
५. स कथं शक्यमस्माभिरपक्रष्टुं बलादितः
पितृपैतामहाद्राज्यात्ससहायो विशेषतः
६. भृता हि पाण्डुनामात्या बलं च सततं भृतम्
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः
७. ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्
८. दुर्योधन उवाच
एवमेतन्मया तात भावितं दोषमात्मनि
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः
९. ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते
१०. स भवान्पाण्डवानाशु विवासयितुमर्हति
मृदुनैवाभ्युपायेन नगरं वारणावतम्
११. यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति
तदा कुन्ती सहापत्या पुनरेष्यति भारत
१२. धृतराष्ट्र उवाच
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते
अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम्
१३. न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित्
१४. समा हि कौरवेयाणां वयमेते च पुत्रक
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः
१५. ते वयं कौरवेयाणामेतेषां च महात्मनाम्
कथं न वध्यतां तात गच्छेम जगतस्तथा
१६. दुर्योधन उवाच
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः
यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः
१७. कृपः शारद्वतश्चैव यत एते त्रयस्ततः
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्
१८. क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे
न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम्
१९. स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय
वारणावतमद्यैव नात्र दोषो भविष्यति
२०. विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्
शोकपावकमुद्भूतं कर्मणैतेन नाशय