Sanatan Gyan
सनातन ज्ञानSanatan Gyan

आदि पर्व, अध्याय १०Adi parva, chapter 10

आदि पर्वAdi parvaमहाभारतMahabharataअध्याय १०Chapter 10
१. रुरुरुवाच
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह
तत्र मे समयो घोर आत्मनोरग वै कृतः
२. हन्यां सदैव भुजगं यं यं पश्येयमित्युत
ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे
३. डुण्डुभ उवाच
अन्ये ते भुजगा विप्र ये दशन्तीह मानवान्
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि
४. एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि
५. सूत उवाच
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा
नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम्
६. उवाच चैनं भगवान्रुरुः संशमयन्निव
कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः
७. डुण्डुभ उवाच
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः
८. रुरुरुवाच
किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम
कियन्तं चैव कालं ते वपुरेतद्भविष्यति